प्रथमावृत्तिः
सूत्रम्॥
न लुमताऽङ्गस्य॥ १।१।६२
पदच्छेदः॥
न ० लुमता ३।१ अङ्गस्य ६।१ प्रत्ययलोपे ७।१ ६१ प्रत्ययलक्षणम् १।१ ६१
समासः॥
लु अस्मिन् अस्ति इति लुमान्, तेन लुमता, {तस्यास्त्यस्मिन्निति मतुप् (५।२।९४)} इत्यनेन मतुप् प्रत्ययः
अर्थः॥
लुमता शब्देन प्रत्ययस्य लोपे (अदर्शने) सति, तस्मिन् परतः यदङ्गं तस्य यत् प्रत्ययलक्षणं कार्यं तत् न भवति।
उदाहरणम्॥
गर्गाः, मृष्टः, जुहुतः, वरणाः।
काशिका-वृत्तिः
न लुमता ऽङ्गस्य १।१।६३
पूर्वेण अतिप्रसक्तं प्रत्ययलक्षणम् इति विशेषे प्रतिषेधः उच्यते। लुमता शब्देन लुप्ते प्रत्यये यदङ्गं, तस्य प्रत्ययलक्षणं कार्यं न भवति। गर्गाः। मृष्टः। जुहुतः। यञ्शपोर् लुमता लुप्तयोरङ्गस्य वृद्धिगुणौ न भवतः। लुमता इति किम्? कार्यते। हार्यते। अङ्गस्य इति किम्? पञ्च। सप्त पयः। साम।
लघु-सिद्धान्त-कौमुदी
न लुमताङ्गस्य १९१, १।१।६२
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः २॥
न्यासः
न लुमताङ्गस्य। , १।१।६२
"लुमता" इति। लुशबोद यस्मिन्निस्ति स लुमान्।
कः पुनरसौ? लुगित्यादिसंज्ञाशब्दः। करणे चेयं तृतीया, हे तौ व, इत्थम्भूतलक्षणे वा। लुमता करणेन लुप्ते
प्रत्यये, तेन हेतुना वा, तदुपलक्षितेन वेत्यर्थः।
अथ प्रत्य इत्येतत् कुतो लभ्यते? प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधानात्।
"लुमताशब्देन लुप्ते प्रत्यये यदङ्गम्" इति। तत् पुनस्तमेव प्रत्ययं
निमित्तमाश्रित्य येनाङ्गसंज्ञा प्रतिलब्धा तद् वेदितव्यम्।तस्य प्रत्ययलक्षणं
कार्यं न भवतीत्यविशेषाभिधानेऽपि प्रत्यासत्तेर्य एवासौ लुमता लुप्तः प्रत्ययोऽङ्गसंज्ञाया निमित्तं तल्लक्षणमिति गम्यते। "गर्गाः" इति। "गर्गादिभ्यो यञ्"
४।१।१०५ "यञञोश्च"
२।४।६४ इति बहुषु लुक्। अत्र "तद्धितेष्वलचामादेः"
७।२।११७ इति
वृद्धिर्न भवति। "मृष्टः" इति। मृजेस्तदस्, अदादित्वाच्छपो लुक्, व्रश्चादिसूत्रेण षत्वम्, ष्टुत्वम्, "मृजेर्वृद्धिः"
७।२।११४ इति वृद्धिर्न भवति। "जुहुतः" इति। तसि परतो जुहोत्यादिभ्यः श्लौ कृते सार्वधातुकलक्षणो गुणो न भवति। सर्वत्र यमेव प्रत्ययमाश्रित्याङ्गसंज्ञा जाता स एव वृद्ध्यादेः कार्यस्य निमित्तम्। इह च विशेषस्यानाश्रणान्न केवलमङ्गाधिकारविहितं कार्यं प्रतिषिध्यते; अपि त्वनङ्गा४धिकारविहितमपि। तेन गर्गाः, बिदाः, उष्ट्रग्रीवा इत्यत्र "ञ्नित्यादिर्नित्यम्"
६।१।१९१ इत्याद्युदात्तत्वमनङ्गाधिकारविहितमपि न भवति। इह च -- अत्रय इति तद्धितस्य "कितः"
६।१।१५९ इत्यन्तोदात्तत्वम्। गर्गाः, बिदा इति यथाक्रमं गर्गादियञ्। "अनृष्यान्नतर्ये विददिभ्योऽञ्"
४।१।१०४ इत्यञ्। "यञञोश्च"
२।४।६४ इति लुक्।
उष्ट्रग्रीवा इति। "इवे प्रतिकृतौ
५।३।९६ इति विहितस्य कनो "देवपथादिभ्यश्च"
५।३।१०० इति लुप्। अत्रय इति अत्रेरपत्यार्थे "इतश्चानिञः"
४।१।१२२ इति विहितस्य ढकः "अत्रिभृगुकुत्सवसिष्ठ"
२।४।६५ इत्यादिना बहुषु लुक्। "पञ्च, सप्त" इति। "ष()ड्-
भ्यो लुक्"
७।१।२२ इति जश्शसोर्लुक्। "पयः साम"इति। अत्रापि "स्वमोर्नपुंसकात्"
७।३।२३ इति। अत्र यद्यपि लुमता लुप्तः प्रत्ययः, तन्निमित्ता चाङ्गसंज्ञा, तथापि प्रत्ययलक्षणेन "सुप्तिङ्गन्तं पदम्"
१।४।१४ इति पदसंज्ञा भवत्येव; यस्मान्नासाव-ङ्गस्य कार्यम्, अपि तु सविभक्तिकस्य समुदायस्य प्रत्ययस्य हि पूर्वभागोऽङ्गम्। न चेह तस् लुमता यो लुप्तः प्रत्यमाश्रित्याह्गसंज्ञा भवति तमेवाश्रित्य पदसंज्ञा
प्राप्नोति। पदसंज्ञायञ्चेह सत्यां पय इत्यत्र "ससजुषो रुः"
८।२।६६ इति रुत्वम्। खरवसनियोर्विसर्जनीयश्च पदकार्यं भवति। "पञ्च, सप्त,साम" इति। अत्रापि "नलोपः प्रा-
तिपदिकान्तस्य"
८।२।७ इति नलोपः पदसंज्ञाकार्यम्। "कार्यते" इति। ण्यन्तात्
कर्मणि लकारः, "सार्वधातुके यक्" (३।१।
६७) अत्र न लुमता प्रत्ययो लुप्तः किं तर्हि? "णेरनिटि"
६।४।५१ इति; अत्र "आतो लोपः"
६।४।६४ इत्यस्माल्लोपग्रहणानुवृत्तेः। तेन प्रत्ययलक्षणा वृद्धिर्भवत्येव॥
बाल-मनोरमा
न लुमताङ्गस्य २६१, १।१।६२
न लुमताङ्गस्य। "प्रत्ययलोपे प्रत्ययलक्षण"मित्यनुवर्तते। "लु"इत्येकदेशोऽस्यास्तीति लुमान्=लुक्शब्दः श्लुशब्दो सुप्शब्दश्च। तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः। तदाह--लुक्श्लु इत्यादिना। अङ्गस्येत्यनुक्तौ पञ्च सप्तेत्यादौ "सुप्तिङन्त"मिति पदसंज्ञा न स्यात्, जश्शसोर्लुका लुप्तत्वात्। ततश्च "न लोपः प्रातिपदिकान्तस्ये"ति नलोपो न स्यात्। अतोऽङ्गस्येत्युक्तम्। एवञ्च जसि लुका लुप्ते "प्रत्ययलक्षणाऽभावाज्जसि चे"ति गुणो न भवतीत्यभिप्रेत्योदाहरति--कतीति। प्रसङ्गादाह--अस्मदिति। त्रिष्विति। पुंस्त्रीनपुंसकेष्वित्यर्थः। सरूपा इति। समानानि रूपाणि येषामिति विग्रहः। लिङ्गविशेषबोधकटाबाद्यभावादिति भावः। नचैवं सति "अलिह्गे युष्मदस्मदी"इति "साम आक"मिति सूत्रस्थभाष्यविरोध इति वाच्यं, पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इति हि तदर्थः। अत एव "न षट्स्वरुआआदिभ्यः" इति पञ्चनादिषट्संज्ञकेभ्यष्टाब्ङीब्निषेधः सङ्गच्छते। अन्यथा स्त्रीत्वाऽभावादेव तदभावे सिद्धे किं तेन?। अत एव च "ङे प्रथमयो"रिति सूत्रे भाष्ये युष्मानित्यत्र "तस्माच्छसो नः पुंसी"त्युपन्यासः सङ्गच्छते। अत एव च "नेतराच्छन्दसी"ति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं तद्भाष्ये च सङ्गच्छते। इति दिक्। त्रिशब्दे विशेषमाह--त्रिशब्द इति। त्रि-आमिति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते।
तत्त्व-बोधिनी
न लुमताङ्गस्य २२१, १।१।६२
न लुमताङ्गस्य।
लुमतेति किम्? कार्यते हार्यते। अत्र "णेपनिटि"इति णिलोपेऽपि णिजपक्षे वृद्धिर्भवत्येव। अङ्गस्येति किम्()। "पञ्च""सप्त""कती"त्यादौ प्रत्ययान्तकार्यं "सुप्तिङन्ताम्---"इति पदसंज्ञा यथा स्यात्। अस्मदिति। प्राचा त्वव्ययास्मदिति पठितं,तत्र अव्ययेत्युपेक्षितम्, "सदृशं त्रिषु लिङ्गेषु"इति श्रुतोर्लिङ्गत्रयाद्यभावपरत्वेन अव्ययानामलिङ्गत्वात्। अव्ययीभावस्य तु वचनात्क्लीबत्वेऽपि लिङ्गान्तराऽभावाच्च। त्रिशब्द इति। "तरतेङ्ग्रिः"। डित्त्वाट्टिलोपः।